चित्रव्याख्या 4 - वंशीवादनम्







वंशीवादनम्
१.    कृष्णः अर्धनिमीलितनेत्राभ्यां मधुरं वेणुं वादयति।
२.    हस्ताभ्यां सः चार्वीं वंशीं सुकुमारं धरति।
३.    सः शुक्लगवां मध्ये सुखं शयानः गोमतल्लिकाः मृदुकलनादैः नन्दयति।
४.    सः शिरोऽलङ्कारैः, कुण्डलाभ्यां, हारैः, कङ्कणाभ्यां, नूपुराभ्यां च शोभते।
५.    तस्य सर्वाङ्गेषु सर्वाणि आभरणानि कान्तिमन्ति।
६.    तस्य वंशी अपि मौक्तिकैः समलङ्कृता।
७.    देवकीनन्दनस्य करतलौ रक्तवर्णौ।
८.    सः श्वेतपुष्पमालां धरति।
९.    तस्य अधोवसनम्, ऊर्ध्ववस्त्रं च धवले, अञ्चलश्च स्वर्णवर्णकः।
१०.    धेनवः सर्वाः वंशीनादं मन्त्रमुग्धा इव श्रुण्वन्ति।
११.    गावः तिलकयुक्ताः, शुभ्रवर्णाः, कण्ठालङ्कृताः, सुन्दरशृङ्गाः विलसन्ति।


Comments